आगरा।विश्वहिन्दू-महासङ्घेन, आगरा-नगरात् आयोजितः सन्तशिरोमणि-गुरुरविदास-जन्मोत्सव-समारोहः तथा हिन्दू-सम्मेलनं आवास-विकास-कालोनीस्थे सेल्फी-रेस्टोरेण्ट् इत्यत्र श्रद्धा-गौरव-वैचारिक-उत्साहेन सह भव्यतया सम्पन्नः। कार्यक्रमस्य शुभारम्भः गुरुरविदास-महाभागस्य चित्रस्य समक्षं दीप-प्रज्वलनेन कृतः।
सम्मेलनस्य मुख्यवक्ता शरद्-परमारः स्वीय-उद्बोधने अवदत् यत् गुरुरविदास-महाभागः कर्मप्रधानतां सर्वोपरि मन्यते स्म, न तु जाति-भेदम्। भारतदेशः दीर्घकालं पराधीनतां प्राप्तवान्, यस्य प्रमुखं कारणं समाजे जातिवादस्य प्रसारः आसीत्। सन्तरविदासादयः महापुरुषाः समाजं बोधितवन्तः यत् मनुष्यस्य परिचयः कर्मणा, आचरणेन, संस्कारेण च भवति।
सः उपस्थित-जनान् आह्वयत् यत् हिन्दू-समाजः स्वीय-सांस्कृतिक-परिचये गर्वं कुर्यात्। बालकान् गृहात् बहिर्गच्छतः काले तेषां ललाटे तिलक-धारणं कर्तव्यम् इति अपि सः अवदत्, यतः तिलकं सनातन-संस्कृतेः, आत्मविश्वासस्य च प्रतीकम् अस्ति।
कार्यक्रमे सौरभ्-तिवारी गुरुरविदासस्य दार्शनिक-चिन्तनं व्यक्तित्वं च विशदतया प्रकाशयन् अवदत् यत् तस्य चिन्तनं सामाजिक-समरसता, समता, भक्ति-भावना-आधारितं च आसीत्, यत् अद्यापि समाजाय अत्यन्तं प्रासङ्गिकम् अस्ति। गुरुरविदासः स्वजीवनेन वाण्या च समाज-संयोगस्य आदर्शं प्रदर्शितवान्।
महानगराध्यक्षः किशन-गुप्तः स्वीय-भाषणे अवदत् यत् सनातन-धर्मः मानवता, करुणा, समरसता-मार्गं दर्शयति। हिन्दुत्वं कस्यचित् भेदं न करोति, अपि तु सर्वान् सह गन्तुं प्रेरयति। गुरुरविदासस्य जीवनं सनातन-संस्कृतेः व्यापक-चिन्तनस्य सजीवम् उदाहरणम् अस्ति।
कार्यक्रमे जिला-अध्यक्षः अजय-कुमार-गुप्तः, प्रदेश-अध्यक्षः मातृशक्ति गङ्गा-धाकड़् इत्यादयः अपि स्वीय-विचारान् व्यक्तवन्तः, तथा उक्तवन्तः यत् एतादृशाः आयोजनाः समाजे सांस्कृतिक-चेतनां राष्ट्र-भावनां च सुदृढां कुर्वन्ति।
अस्मिन् अवसरः अंकित-उपाध्यायः, अश्वनी-शर्मा, राजेश-शर्मा, गजेन्द्र-शर्मा, शरद्-प्रजापति, देव-ठाकुरः, मीनू-अग्रवालः, पूनम्-पचौरी, डिम्पल्-गम्भीरः, राजीव-गुप्तः, रोहित्-गर्गः, सौरभ्-अग्रवालः, राहुल-गुप्तः इत्यादयः गणमान्याः उपस्थिताः आसन्।
कार्यक्रमस्य समापनं गुरुरविदास-महाभागस्य आदर्शान् आत्मसात् कृत्वा सनातन-संस्कृतेः संरक्षण-संवर्धनाय संकल्प-ग्रहणेन कृतम्।

