आग्रानगरे स्थिते श्रीमती बी.डी. जैन गर्ल्स पी.जी. कॉलेज इति महाविद्यालये द्विदिवसीयः ‘उमंग’ वार्षिकोत्सवः रंगारङ्ग-सांस्कृतिक-कार्यक्रमैः सह समापितः। कार्यक्रमस्य उद्घाटनम् डॉ. भीमराव आम्बेडकर विश्वविद्यालय कुलपतिना प्रोफेसर आशु रानी महोदया दीपप्रज्वलनेन कृतम्।
संगीत-विभागस्य छात्राभिः द्रौपदी-चीरहरणस्य मार्मिक-नाट्य-प्रस्तुति प्रदर्शिता। बी.एड्. छात्राभिः ‘ऑपरेशन सिंदूर’ नाटकस्य माध्यमेन नारी-शक्तीकरणस्य देशभक्तेः च संदेशः दत्तः। होली-नृत्येन वातावरणम् आनन्दपूर्णं जातम्।
प्राचार्या प्रोफेसर वंदना अग्रवाल वार्षिक-प्रगति-प्रतिवेदनं प्रस्तुतवती। आगरा कॉलेजस्य प्राचार्यः प्रोफेसर सी.के. गौतम तथा बिचपुरी कॉलेजस्य प्राचार्या प्रोफेसर सीमा भदौरिया छात्राभिः निर्मितानां मेट्रो तथा बुलन्द-द्वार-आदर्शानां प्रशंसां कृतवन्तौ।
डॉ. नीलम कांत, डॉ. नसीम अख्तर, डॉ. शिखा इत्येषां ग्रन्थानां विमोचनं जातम्। मेधावी छात्राः कशिश प्रजापति, कंचन, लीना माहौर सम्मानिताः। दिव्यांशी तथा प्रीति छात्रवृत्त्या सम्मानिते।

