आगरा।विश्वहिन्दू-महासङ्घेन, आगरा-नगरात् आयोजितः सन्तशिरोमणि-गुरुरविदास-जन्मोत्सव-समारोहः तथा हिन्दू-सम्मेलनं आवास-विकास-कालोनीस्थे सेल्फी-रेस्टोरेण्ट् इत्यत्र श्रद्धा-गौरव-वैचारिक-उत्साहेन सह भव्यतया सम्पन्नः। कार्यक्रमस्य शुभारम्भः गुरुरविदास-महाभागस्य चित्रस्य समक्षं दीप-प्रज्वलनेन कृतः।…

